॥ अथ अष्टभैरव ध्यानस्तोत्रम् ॥ भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः । मूढास्तेवै न जानन्ति मोहिताः शिवमायया ॥ ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः। नमस्कार मन्त्रः - ॐ श्रीभैरव्यै नम:, ॐ मं महाभैरव्यै नम:, ॐ सिं सिंहभैरव्यै नम:, ॐ धूं धूम्रभैरव्यै नम:, ॐ भीं भीमभैरव्यै नम:, ॐ उं उन्मत्तभैरव्यै नम:, ॐ वं वशीकरणभैरव्यै नम:, ॐ मों मोहनभैरव्यै नम: । अथ अष्टभैरव ध्यानम् :- असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥ १) असिताङ्गभैरव ध्यानम् :- रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् । निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥१॥ २) रूरुभैरव ध्यानम् :- निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् । भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि॥२॥ ३) चण्डभैरव ध्यानम् :- बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् । शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम्॥३॥ ४) क्रोधभैरव ध्यानम् :- उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे । नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत्॥४॥ ५) उन्मत्तभैरव ध्यानम् :- एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् । चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि॥५॥ ६) कपालभैरव ध्यानम् :- वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च । दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम्॥६॥ ७) भीषणभैरव ध्यानम् :- त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् । कपालं शूलहस्तञ्च वरदाभयपाणिनम् ॥ सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् । रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् । नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् ॥ नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम् । नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् ॥ नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम् । किङ्किणीमालिका भूष्यं भीमरूपं भयावहम्॥७॥ ८) संहारभैरव ध्यानम् :- एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा । डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ॥ धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा । वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा ॥ नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् । कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा ॥ श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम् । सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् ॥८॥ ॥ इति श्रीभैरव स्तुति निरुद्र कुरुते ॥ ॥ इति अष्टभैरव ध्यानस्तोत्रं सम्पूर्णम् ॥