Dwadash Jyotirlinga Stotram || श्री द्वादश ज्योतिर्लिंग स्तोत्रम् || Shivam Aggarwal

Dwadash Jyotirlinga Stotram || श्री द्वादश ज्योतिर्लिंग स्तोत्रम् || Shivam Aggarwal

सुनिए मंत्रमुग्ध कर देने वाला || द्वादश ज्योतिर्लिङ्ग स्तोत्रम् || सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् | भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये || १|| श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् | तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् || २|| अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् | अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् || ३|| कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय | सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे || ४|| पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् | सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि || ५|| याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः | सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये || ६|| महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः | सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे || ७|| सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे | यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे || ८|| सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः | श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि || ९|| यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च | सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि || १०|| सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् | वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये || ११|| इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् | वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये || १२|| ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण | स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च || || इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् || Video by shuklasudhindu