Sri Sarada Devi Suprabhatam is sung by Swami Mukteshananda of Ramakrishna Math and Ramakrishna Mission. Lyrics श्रीसारादादेवीसुप्रभातम् -२ मातः समस्तजगतां परमस्य पुंसः शक्तिस्वरूपिणि श्रीसारादादेवीसुप्रभातम् -२ मातः समस्तजगतां परमस्य पुंसः शक्तिस्वरूपिणि शिवे करुणार्द्रचित्ते। लोकस्य शोकशमनाय कृतावतारे श्रीसारदेऽस्तु शिवदे तव सुप्रभातम् ॥१॥ बाल्ये भवस्य तमसः परिहारयित्रे लीलामनुष्यवपुषेऽथ गदाधराय । दत्ते तदर्पितधियाप्तसमस्तविद्ये श्रीसारदेऽस्तु शिवदे तव सुप्रभातम् ॥२॥ बाल्यात्परे वयसि भर्तरि संप्रवृत्तां उन्मत्त इत्यनुचितामवधूय वार्ताम्। तद्दर्शनक्रमितदुर्गमदूरमार्गे श्रीरामकृष्णदयिते तव सुप्रभातम् ॥३॥ संन्यासिनं पतिमवेक्ष्य च नोद्विजाने सेवार्पितत्रिकरणे परिशुद्धचित्ते। तत्साधनाचरमसीम्नि समर्पिताङ्घ्रे श्रीरामकृष्णपरमेश्वरि सुप्रभातम् ॥४॥ यामेव चात्मजननीं भवतारिणीं च सेवापरां तु बुबुधे गुरुरस्तभेदः। तस्याः समस्तजगतोऽस्य शरण्यमूर्तेः श्रीरामकृष्णदयिते तव सुप्रभातम् ॥५॥ आवृण्वतीं परमिकां प्रकृतिं स्वकीयां संसारिणीव बहुदुःखजले भवाब्धौ। सर्वंसहे श्रितजनोद्धरणैकदीक्षे श्रीरामकृष्णदयिते तव सुप्रभातम् ॥६॥ गेहस्य मार्जनविधौ मम कर्मशान्तिं नायात्यसङ्ख्यकरणैः क्रियमाणमेवम्। आकस्मिकोक्तिविवृताखिलशक्तिरूपे श्रीरामकृष्णदयिते तव सुप्रभातम् ॥७॥ श्रीरामकृष्णदयिते तदधीनसत्त्वे तद्भक्तवृन्दपरिपालिनि मुक्तिदात्रि। तद्भावरक्तहृदये तदभिन्नतत्त्वे मातः समस्तजगतां तव सुप्रभातम् ॥८॥