#SHREE RAM SANSKRIT #SANSKRIT EDUCATION #श्रीमद्भगवद्गीता #संस्कृतश्लोक #Geeta अथ द्वादशोऽध्यायः । भक्तियोगः अर्जुन उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१॥ श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७॥ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥ सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥ ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥ #SHREERAMSANSKRIT #SANSKRITEDUCATION #atulshastri #atulshastritarte #atultarte #stoatr #matra #nirupankar #kathakar #pravachankar #bhagwatkar #sanskrut #sanskrit #sanskruti #hindu #hindutva #ram #shreeram #hindurashtra #akhandbharat #bharat #deshbhakti #vedicvidyalay #sanskritmahavidyalay #stoatrvarg #vedicdharma #dharma #viral #viralvideo #viralshorts #shorts #zeetv #abp #abpmazha #aajtak #akhandbharat #bharat #bhartiyasanskruti #sipritual #spirituality #lectures #spiritualquotes #motivational #informative #awakening #inspirational #englightment #happiness #aasthatv #sanskartv #sadhana #sadhnachannel #aajtak #sanskargold #sadhnagold #times9news @timesmusicindia #HT-Videos #nytimes #navbharattimes #timesnownavbharat #tseries #zeetv #zeenews #zeemusiccompany #abpmajhatv #aasthachannel #saiaashirwad #sarkarnama #SanskargroupInOfficial #Shivkrantinews #sadguru #sadguruscience #dharmsadhna #sonysab #tseriesbhaktisagar #Zee24Taas #positivevibes #selfmentalcare #spiritualgrowth #universe #spirit #gratitude #manifestation #chakras #hope #instagram #truth #positivity #loveyourself #goodvibes #higherconsciousness #mentalhealth #intuition #mind #mindset #religion @aajtak @sanskargold-hindi @SADHNAGOLD @Times9News @timesmusicindia @HT-Videos @nytimes @navbharattimes @TimesNow @tseries @zeetv @zeenews @zeemusiccompany @abpmajhatv @AasthaChannel @SaiAashirwad @Sarkarnama @SanskargroupInOfficial @Shivkrantinews @sadguru @DharmSadhna @SonySAB @tseriesbhaktisaga @Zee24Taas